अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः। ते पा॒यवः॑ स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥१२॥
asvapnajas taraṇayaḥ suśevā atandrāso vṛkā aśramiṣṭhāḥ | te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra ||
अस्व॑प्नऽजः। त॒रण॑यः। सु॒ऽशेवाः॑। अत॑न्द्रासः। अ॒वृ॒काः। अश्र॑मिष्ठाः। ते। पा॒यवः। स॒ध्र्य॑ञ्चः। नि॒ऽसद्य॑। अग्ने॑। तव॑। नः॒। पा॒न्तु॒। अ॒मू॒र॒॥१२॥
स्वामी दयानन्द सरस्वती
अब प्रजाजनों के रक्षा विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
अथ प्रजाजनरक्षाविषयमाह ॥
हे अमूराऽग्ने राजन् ! ये तवाऽस्वप्नजस्तरणयोऽतन्द्रासोऽवृका अश्रमिष्ठाः सुशेवाः सध्र्यञ्चः पायवो भृत्याः सन्ति ते निषद्य नः पान्तु ॥१२॥